हलः इति वर्तते, अन्यतरस्याम् इति च। हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति अन्यतरस्याम्। प्रत्त्तम्, अवत्त्तम् इत्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः। तत्र मध्यमस्य मध्यमयोर् वा लोपो भवति। मरुत्त्त्तः इत्यत्र चत्वारस्तकाराः क्रमजः पञ्चमः। तत्र मध्यमस्य मध्यमयोः मध्यमानां वा लोपो भवति। मरुच्छब्दस्य हि उपसङ्ख्यानसामर्थ्यातच उपसर्गात्तः
७।४।४७ इति तत्वं भवति।
झरः इति किम्? शार्ङ्गम्।
झरि इति किम्? प्रियपञ्च्ञा। अल्लोपस्य च पूर्वत्र असिद्धे न स्थानिवतिति स्थानिवद्भावप्रतिषेधात् चकारस्य ञकारे लोपः स्यात्।
सवर्णे इति किम्? तर्प्ता तप्तुम्। तर्प्तव्यम्। सवर्णग्रहणसामर्थ्यातिह सङ्ख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते। तेन शिण्ढि, पिण्ढि इति ढकारे डकारस्य लोपो भवति।
"प्रत्तमवत्तम्()" इत्यादि। ददातेः क्तः, "अच उपसर्गात्तः"
७।४।४७ इत्यकारस्य तकारः, दकारस्यापि "खरि च"
८।४।५४ इति चत्र्वम्()।
एवं तावत्? त्रयस्तकाराः--द्वावादेशौ, एकः प्रत्ययावयवः। "अनचि च" (श्र।४।४७) इति यो निर्वृत्तः स क्रमजश्चतुर्थः। "मध्यमस्य मध्यमयोर्वा" इति। पूर्ववदन्यतरस्यांग्रहणानुवृत्तेरेव वेदितव्यम्()। "मरुत्त्त इति चत्वारस्तकाराः" इति। तरयः पूर्ववत्(), चतुर्थो मरुच्छब्दावयवः, क्रमजः पञ्चम इति "अनचि च"
८।४।४६ इति यो विहितः।
ननु चाजन्तादुपसर्गात्? तत्वमुच्यते, न च मरुच्छब्दोऽजन्तः,
किं तर्हि? हलन्तः,
तत्? कथं तत्वं भवति? इत्याह--"मरुच्छब्दस्य" इत्यादि। "उपसर्गाः क्रियायोगे"
१।४।५८ इत्यत्र मरुच्छब्दस्योपसंख्यानमुपसर्गकार्यार्थम्()। यदि सत्यामपि तस्यां तत्वं न स्यात्(), तदा तस्य वैयध्र्यं स्यात्()। तस्मादुपसंख्यानसामथ्र्यादनजन्तादपि तत्वं भवत्येव।
तर्हि यथा ह्रुपसर्गोपसंख्यानसामथ्र्यात्? तत्वं भवति, तथा भरुन्नयतीत्यत्रापि "उपसर्गादसमासेऽपि णोपदेशस्य"
८।४।१४ इति तकारेणा नडादिव्यवाये णत्वं स्यात्()। यदीष्यते तदा भवतु। यदि नेष्यते तदा क्षुभ्नादिषु
८।४।३८ द्रष्टव्यः।
"शाङ्र्गम्()" इति। ङकारो हल उत्तरो भवति झरि च सवर्णे परतः, न त्वयं झरिति न भवति लोपः। "प्रियपञ्च्ञा" इति प्रियाः पञ्चास्येति बहुव्रीहिः, ततस्तृतीयैकवचनम्()। "अल्लोपोऽनः"
६।४।१३४ इत्यकारलोपः, "स्तोः श्चुना श्चुः"
८।४।३९ इति श्चुत्वं तवर्गस्य। वर्गो वर्गेण सवर्ण इति ञकारश्चवर्गस्य सवर्णः। न त्वयं ञकारो झर्()।
तेन तस्मिन्? परभूते पूर्वस्माद्धलः परस्यापि चकारस्य लोपो न भवति।
ननु चाक्रियमाणेऽपि झरीत्येतस्मिन्? नैवात्र लोपः प्राप्नोति, निर्दिष्टग्रहणस्यादन्तर्यार्थत्वात्(); अनन्तरे परभूते सवर्णे लोपेन भवितव्यम्(), न चात्रानन्तरो ञकारः,
पूर्वस्य लोपे कृते "अचः परस्मिन्? पूर्वविधौ"
१।१।५६ इत्यकारलोपस्य स्थानिवद्भावात्(),
तत्? किं झरीतयनेन? इत्यत आह--"लोपस्य" इत्यादि। पूर्वत्रासिद्धीये ह्रल्लोपस्य स्थानिवद्भावः प्रतिषिध्यते। अत्र "झरि" इत्येतन्नोच्येत यदि, तदात्र लोप स्यादेव।
"तर्प्ता" इति। "तृप प्रीणने" (धा।पा।१२७१),
पकारस्य तकारः स्थानबेदात्? सवर्णो न भवति, तेनाच लोपे न भवति। ननु च निमित्तानां कार्यिणां च साम्यादिह संख्यातानुदेशेन भवतिव्यम्(), तत्रासत्यपि सवर्णग्रहणे तर्प्तेत्यादौ नैव लोपः प्राप्नोति,
तत्? किं तन्निवृत्त्यर्थेन सवर्णग्रहणेन? इत्यत आह--"सवर्णग्रहणसामथ्र्यात्()" इत्यादि। यद्यत्र यतासंक्यं स्यात् ततो झकारस्य झकार एव लोपः प्रसज्येत, यावता झकारस्य झकार एव सवर्णः, एवं च सति सवर्णग्रहणमनर्थकं स्यात्(); व्यवच्छेद्याभावात्()। न हि झकारस्यासवर्णो झकारः सम्भवति। तस्मादत्र सवर्णग्रहणसामथ्र्यान्न संख्यातानुदेशो भवति। तेन शिण्डि, पिण्ढौत्यत्र सवर्णमात्रे ढकारे डकारलोपे भवतीति। "शिष्लृ विशरणे" ["विशेषणे"--धा।पा"] (धा।पा।१४५१), "पिष्लृ सञ्चूर्णने" (धा।पा।१४५२), लोङ्(), सिप्(), "सेह्र्रपिच्च"
३।४।८७ इति हिरादेशः, श्नम्(), "श्नसोरल्लोपः"
६।४।१११ इत्यकारलोपः, "हुझल्भ्यो हेर्धिः"
६।४।१०१ इति धिभावः,
"ङलां जश्? झशि"
८।४।५२ इति जश्त्वम्()--षकारस्य डकारः, "नश्चापदान्तस्य झलि"
८।३।२४ इत्यनुस्यारः; "ष्टुना ष्डुः"
८।४।४० इति धकारस्य ढकारः, "अनुस्वारस्य ययि परसव्रणः"
८।४।५७ इति णकारः, अनेन डकारस्य ढकारे लोपः॥